BhaktiVed
Ganesh

Ganesha Stuti (vakratunda Mahakaya)

StotramRecited before every puja and satsang

This text is still being proofread.

वक्रतुण्ड महाकाय सूर्यकोटि समप्रभ।

निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा॥

गजाननं भूतगणादि सेवितं, कपित्थ जम्बू फल चारु भक्षणम्।

उमासुतं शोक विनाश कारकं, नमामि विघ्नेश्वर पाद पंकजम्॥

शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम्।

प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये॥

सुमुखश्चैकदन्तश्च कपिलो गजकर्णकः।

लम्बोदरश्च विकटो विघ्ननाशो विनायकः॥

धूम्रकेतुर्गणाध्यक्षो भालचन्द्रो गजाननः।

द्वादशैतानि नामानि यः पठेच्छृणुयादपि॥

विद्यारम्भे विवाहे च प्रवेशे निर्गमे तथा।

संग्रामे संकटे चैव विघ्नस्तस्य न जायते॥

Source: Traditional Ganesh invocation shlokas (Vakratunda Mahakaya; Sumukhashchaikadantashcha dvadasha nama); standard Sanskrit text