BhaktiVed
అమ్మవారు

गंगा स्तोत्रम् (देवि सुरेश्वरि भगवति गंगे)

స్తోత్రంరచన: आदि शंकराचार्य (Adi Shankaracharya)

ఈ పాఠం ఇంకా సరిచూడబడలేదు.

देवि सुरेश्वरि भगवति गङ्गे, त्रिभुवनतारिणि तरलतरङ्गे।

शङ्करमौलिविहारिणि विमले, मम मतिरास्तां तव पदकमले॥

भागीरथिसुखदायिनि मातस्तव, जलमहिमा निगमे ख्यातः।

नाहं जाने तव महिमानं, पाहि कृपामयि मामज्ञानम्॥

हरिपदपाद्यतरङ्गिणि गङ्गे, हिमविधुमुक्ताधवलतरङ्गे।

दूरीकुरु मम दुष्कृतिभारं, कुरु कृपया भवसागरपारम्॥

तव जलममलं येन निपीतं, परमपदं खलु तेन गृहीतम्।

मातर्गङ्गे त्वयि यो भक्तः, किल तं द्रष्टुं न यमः शक्तः॥

पतितोद्धारिणि जाह्नवि गङ्गे, खण्डितगिरिवरमण्डितभङ्गे।

भीष्मजननि हे मुनिवरकन्ये, पतितनिवारिणि त्रिभुवनधन्ये॥

कल्पलतामिव फलदां लोके, प्रणमति यस्त्वां न पतति शोके।

पारावारविहारिणि गङ्गे, विमुखयुवतिकृततरलापाङ्गे॥

तव चेन्मातः स्रोतः स्नातः, पुनरपि जठरे सोऽपि न जातः।

नरकनिवारिणि जाह्नवि गङ्गे, कलुषविनाशिनि महिमोत्तुङ्गे॥

पुनरसदङ्गे पुण्यतरङ्गे, जय जय जाह्नवि करुणापाङ्गे।

इन्द्रमुकुटमणिराजितचरणे, सुखदे शुभदे भृत्यशरण्ये॥

మూలం: Adi Shankaracharya, Ganga Stotram; first eight verses, standard Sanskrit text

ఇవి కూడా చదవండి