BhaktiVed
कृष्ण

भज गोविन्दम् (मोह मुद्गर)

स्तोत्ररचना: आदि शंकराचार्य (Adi Shankaracharya)

इस पाठ की जाँच अभी बाकी है।

भज गोविन्दं भज गोविन्दं, गोविन्दं भज मूढमते।

सम्प्राप्ते सन्निहिते काले, नहि नहि रक्षति डुकृञ्करणे॥

मूढ जहीहि धनागमतृष्णां, कुरु सद्बुद्धिं मनसि वितृष्णाम्।

यल्लभसे निजकर्मोपात्तं, वित्तं तेन विनोदय चित्तम्॥

नारीस्तनभरनाभीदेशं, दृष्ट्वा मा गा मोहावेशम्।

एतन्मांसवसादिविकारं, मनसि विचिन्तय वारं वारम्॥

नलिनीदलगतजलमतितरलं, तद्वज्जीवितमतिशयचपलम्।

विद्धि व्याध्यभिमानग्रस्तं, लोकं शोकहतं च समस्तम्॥

यावद्वित्तोपार्जनसक्तः, तावन्निजपरिवारो रक्तः।

पश्चाज्जीवति जर्जरदेहे, वार्तां कोऽपि न पृच्छति गेहे॥

यावत्पवनो निवसति देहे, तावत्पृच्छति कुशलं गेहे।

गतवति वायौ देहापाये, भार्या बिभ्यति तस्मिन्काये॥

बालस्तावत्क्रीडासक्तः, तरुणस्तावत्तरुणीसक्तः।

वृद्धस्तावच्चिन्तासक्तः, परमे ब्रह्मणि कोऽपि न सक्तः॥

का ते कान्ता कस्ते पुत्रः, संसारोऽयमतीव विचित्रः।

कस्य त्वं कः कुत आयातः, तत्त्वं चिन्तय तदिह भ्रातः॥

सत्सङ्गत्वे निस्सङ्गत्वं, निस्सङ्गत्वे निर्मोहत्वम्।

निर्मोहत्वे निश्चलतत्त्वं, निश्चलतत्त्वे जीवन्मुक्तिः॥

वयसि गते कः कामविकारः, शुष्के नीरे कः कासारः।

क्षीणे वित्ते कः परिवारः, ज्ञाते तत्त्वे कः संसारः॥

मा कुरु धनजनयौवनगर्वं, हरति निमेषात्कालः सर्वम्।

मायामयमिदमखिलं हित्वा, ब्रह्मपदं त्वं प्रविश विदित्वा॥

दिनयामिन्यौ सायं प्रातः, शिशिरवसन्तौ पुनरायातः।

कालः क्रीडति गच्छत्यायुः, तदपि न मुञ्चत्याशावायुः॥

इस पाठ का वीडियो नहीं है।YouTube पर खोजें
स्रोत: Adi Shankaracharya, Bhaja Govindam (Moha Mudgara); the first twelve verses (Dvadashamanjarika) as commonly sung

ये भी पढ़ें