BhaktiVed
హనుమంతుడు

हनुमान ध्यान श्लोक (मनोजवं मारुततुल्यवेगं)

స్తోత్రం

ఈ పాఠం ఇంకా సరిచూడబడలేదు.

अतुलितबलधामं हेमशैलाभदेहं, दनुजवनकृशानुं ज्ञानिनामग्रगण्यम्।

सकलगुणनिधानं वानराणामधीशं, रघुपतिप्रियभक्तं वातजातं नमामि॥

मनोजवं मारुततुल्यवेगं, जितेन्द्रियं बुद्धिमतां वरिष्ठम्।

वातात्मजं वानरयूथमुख्यं, श्रीरामदूतं शरणं प्रपद्ये॥

यत्र यत्र रघुनाथकीर्तनं, तत्र तत्र कृतमस्तकाञ्जलिम्।

बाष्पवारिपरिपूर्णलोचनं, मारुतिं नमत राक्षसान्तकम्॥

गोष्पदीकृतवारीशं मशकीकृतराक्षसम्।

रामायणमहामालारत्नं वन्देऽनिलात्मजम्॥

ఈ పాఠానికి వీడియో లేదు.YouTubeలో వెతకండి
మూలం: Traditional Hanuman dhyana shlokas (Manojavam Marutatulyavegam; Atulitabaladhamam); standard Sanskrit text