BhaktiVed
अपने नाम से दिवाली Wishes · WhatsApp Status
कृष्ण

मधुराष्टकम्

स्तोत्ररचना: श्री वल्लभाचार्य (Shri Vallabhacharya)Adharam madhuram vadanam madhuram; sung as a slow bhajan
लिपि
फ़ॉन्ट साइज़

इस पाठ की संपादकीय समीक्षा आवश्यक है।

संपादकीय समीक्षा · समीक्षा आवश्यक

समीक्षा दर्ज होने पर उसकी तारीख दिखाई जाती है। लिपि बदलना अनुवाद नहीं है। परंपराओं में पाठांतर हो सकते हैं।

अधरं मधुरं वदनं मधुरं, नयनं मधुरं हसितं मधुरम्।

हृदयं मधुरं गमनं मधुरं, मधुराधिपतेरखिलं मधुरम्॥

वचनं मधुरं चरितं मधुरं, वसनं मधुरं वलितं मधुरम्।

चलितं मधुरं भ्रमितं मधुरं, मधुराधिपतेरखिलं मधुरम्॥

वेणुर्मधुरो रेणुर्मधुरः, पाणिर्मधुरः पादौ मधुरौ।

नृत्यं मधुरं सख्यं मधुरं, मधुराधिपतेरखिलं मधुरम्॥

गीतं मधुरं पीतं मधुरं, भुक्तं मधुरं सुप्तं मधुरम्।

रूपं मधुरं तिलकं मधुरं, मधुराधिपतेरखिलं मधुरम्॥

करणं मधुरं तरणं मधुरं, हरणं मधुरं रमणं मधुरम्।

वमितं मधुरं शमितं मधुरं, मधुराधिपतेरखिलं मधुरम्॥

गुञ्जा मधुरा माला मधुरा, यमुना मधुरा वीची मधुरा।

सलिलं मधुरं कमलं मधुरं, मधुराधिपतेरखिलं मधुरम्॥

गोपी मधुरा लीला मधुरा, युक्तं मधुरं मुक्तं मधुरम्।

दृष्टं मधुरं शिष्टं मधुरं, मधुराधिपतेरखिलं मधुरम्॥

गोपा मधुरा गावो मधुरा, यष्टिर्मधुरा सृष्टिर्मधुरा।

दलितं मधुरं फलितं मधुरं, मधुराधिपतेरखिलं मधुरम्॥

ये भी पढ़ें